Class – 9 Chapter – 4 Kalptaru

CLASS – 9 SANSKRIT SHEMUSHI PART – 1 CHAPTER – 4 KALPTARU | HINDI TRANSLATION | QUESTION ANSWER | कक्षा – 9 संस्कृत शेमुषी भाग – 1 चतुर्थः पाठः कल्पतरूः | हिन्दी अनुवाद | अभ्यास:

Class – 9 Chapter – 4 KALPTARU

Table of Contents

चतुर्थ: पाठ:

कल्पतरूः

NCERT BOOK SOLUTIONS | SOLUTIONS FOR NCERT SANSKRIT CLASS 9 CHAPTER 4 IN HINDI

( हिन्दी अनुवाद )

( प्रस्तुतोऽयं पाठ: “वेतालपञ्चविंशतिः” इति प्रसिद्धकथासंग्रहात् सम्पदानं कृत्वा संग्रहीतोऽस्ति। अत्र मनोरञ्जकघटनाभि: विस्मयकारिघटनाभिश्च जीवनमूल्यानां निरुपणं वर्तते। अस्यां कथायां पूर्वकालत: एव स्वगृहोद्याने स्थितकल्पवृक्षेण जीमूतवाहन: लौकिकपदार्थान् न याचते। अपितु सः सांसारिकप्राणिनां दुःखानि अपाकरणाय वरं याचते। यतो हि लोकभाग्या: भौतिकपदार्था: जलतरङ्गवद् अनित्या: सन्ति। अस्मिन् संसारे केवलं परोपकारः एव सर्वोत्कृष्टं चिरस्थायि तत्त्वम् अस्ति। )

हिन्दी अनुवाद – ( यह पाठ “ वेतालपञ्चविंशतिः” नामक कथा संग्रह से लिया गया है, जिसमे मनोरञ्जक एवं आश्चर्यजनक घटनाओ के माध्यम से जीवनमूल्यो का निरुपण किया गया है। इस कथा में जीमूतवाहन अपने पूर्वजों के काल से घर के बगीचे में स्थित कल्पवृक्ष से सांसारिक द्रव्यों को न माँगकर संसार के प्राणियो के दुःखो को दूर करने का वरदान माँगता है क्योंकि,  धन तो पानी की लहर  के समान चंचल है, इस संसार मे केवल परोपकार ही सर्वोत्कृष्ट तथा चिरस्थायी तत्त्व हैं। )

1. अस्ति हिमवान् नाम सर्वरत्नभूमिः नगेन्द्रः। तस्य सानो: उपरि विभाति कञ्चनपुरं नाम नगरम्। तत्र जीमूतकेतुः इति श्रीमान् विद्याधरपतिः वसति स्म। तस्य गृहोद्याने कुलक्रमागतः कल्पतरुः स्थितः। स राजा जीमूतकेतुः तं कल्पतरुम् आराध्य तत्प्रसादात् च बोधिसत्वांशसम्भवं जीमूतवाहनं नाम पुत्रं प्राप्नोत्। सः जीमूतवाहनः महान् दानवीरः सर्वभूतानुकम्पी च अभवत्।

तस्य गुणैः प्रसन्नः स्वसचिवैश्च प्रेरितः राजा कालेन सम्प्राप्तयौवनं तं यौवराज्ये अभिषिक्तवान्। कदाचित् हितैषिणः पितृमन्त्रिणः यौवराज्ये स्थितं तं जीमूतवाहनं उक्तवन्तः-“युवराज! योऽयं सर्वकामदः कल्पतरुः तवोद्याने तिष्ठति स तव सदा पूज्यः। अस्मिन् अनुकूले स्थिते सति शक्रोऽपि अस्मान् बाधितुं न शक्नुयात्” इति।

हिन्दी अनुवाद – सब रत्नों की भूमि, पर्वतों में श्रेष्ठ हिमालय नामक पर्वत है। उसके शिखर ( चोटी ) पर कंचनपुर नामक नगर सुशोभित है। वहाँ विद्याधरों के राजा श्रीमान जीमूतकेतु रहते थे। उनके घर ( महल ) के बगीचे में वंश परंपरा से चला आ रहा कल्पवृक्ष था। उस राजा ने उस कल्पवृक्ष की आराधना करके और उसकी कृपा से बोधिसत्व के अंश से उत्पन्न जीमूतवाहन नामक पुत्र को प्राप्त किया। वह महान, दानवीर और सभी प्राणियों पर कृपा करने वाला हुआ।

उसके गुणों से प्रसन्न और अपने मंत्रियों से प्रेरित राजा ने समय पर जवानी को प्राप्त उसे ( राजकुमार को ) युवराज के पद पर अभिषिक्त किया। युवराज पद पर बैठे हुए उस जीमूतवाहन को ( एक बार ) किसी समय हितकारी पिता के मंत्रियों ने कहा-“हे युवराज! जो यह सब कामनाओं को पूरा करने वाला कल्पवृक्ष आपके बगीचे में खड़ा है, वह आपके लिए सदैव पूज्य है। इसके अनुकूल होने पर इंद्र भी हमें दुखी नहीं कर सकता है”।

2. एतत् आकर्ण्य जीमूतवाहनः अचिन्तयत्-“अहो ईदृशम् अमरपादपं प्राप्यापि पूर्वैः पुरुषैः अस्माकं तादृशं फलं किमपि न प्राप्तम्। किन्तु केवलं कैश्चिदेव कृपणैः कश्चिदपि अर्थः अर्थितः। तदहम् अस्मात् कल्पतरोः अभीष्टं साधयामि” इति। एवम् आलोच्य सः पितुः अन्तिकम् आगच्छत्। आगत्य च सुखमासीनं पितरम् एकान्ते न्यवेदयत्-“तात! त्वं तु जानासि एव यदस्मिन् संसारसागरे आशरीरम् इदं सर्वं धनं वीचिवत् चञ्चलम्।

एकः परोपकार एव अस्मिन् संसारे अनश्वरः यो युगान्तपर्यन्तं यशः प्रसूते। तद् अस्माभिः ईदृशः कल्पतरुः किमर्थ रक्ष्यते? यैश्च पूर्वैरयं ‘मम मम’ इति आग्रहेण रक्षितः, ते इदानीं कुत्र गताः? तेषां कस्यायम्? अस्य वा के ते? तस्मात् परोपकारैकफलसिद्धये त्वदाज्ञया इमं कल्पपादपम् आराधयामि।

हिन्दी अनुवाद – यह सुनकर जीमूतवाहन ने मन में सोचा-“अरे ऐसे अमर पौधे को प्राप्त करके भी हमारे पूर्वजों के द्वारा वैसा कोई भी फल नहीं प्राप्त किया गया, किंतु केवल कुछ ही कंजूसों ने ही कुछ धन प्राप्त किया। इस कल्पवृक्ष से तो मैं अपनी प्रिय इच्छा को पूरी करूँगा।” ऐसा सोचकर वह पिता के पास आया। ( वहाँ ) आकर सुखपूर्वक बैठे हुए पिता को एकान्त में निवेदन किया-“पिता जी! आप तो जानते ही हैं कि इस संसार रूपी सागर में इस शरीर से लेकर सारा धन लहरों की तरह चंचल है।

एक परोपकार ही इस संसार में अनश्वर ( नष्ट नहीं होने वाला ) है जो युगों तक यश पैदा करता ( देता ) है। तो हम ऐसे कल्पवृक्ष की किसलिए रक्षा करते हैं ? और जिन पूर्वजों के द्वारा यह ( मेरा-मेरा ) इस आशा से रक्षा किया गया, वे ( पूर्वज ) इस समय कहाँ गए ? उनमें से किसका यह है ? अथवा इसके वे कौन हैं ? तो परोपकार के एकमात्र फल की सिद्धि ( प्राप्ति ) के लिए आपकी आज्ञा से इस कल्पवृक्ष की आराधना करता हूँ।

3. अथ पित्रा ‘तथा’ इति अभ्यनुज्ञातः स जीमूतवाहनः कल्पतरुम् उपगम्य उवाच-“देव! त्वया अस्मत्पूर्वेषाम् अभीष्टाः कामाः पूरिताः, तन्ममैकं कामं पूरय। यथा पृथिवीम् अदरिद्राम् पश्यामि तथा करोतु देव” इति। एवं वादिनि जीमूतवाहने “त्यक्तस्त्वया एषोऽहं यातोऽस्मि” इति वाक् तस्मात् तरोः उदभूत्। क्षणेन च स कल्पतरुः दिवं समुत्पत्य भुवि तथा वसूनि अवर्षत् यथा न कोऽपि दुर्गत आसीत्। ततस्तस्य जीमूतवाहनस्य सर्वजीवानुकम्पया सर्वत्र यशः प्रथितम्।

हिन्दी अनुवाद – इसके बाद पिता के द्वारा ‘वैसा ही करो’ ऐसी आज्ञा प्राप्त किया हुआ, वह जीमूतवाहन कल्पवृक्ष के पास जाकर बोला- “हे देव ( भगवन् )! आपने हमारे पूर्वजों की सारी प्रिय कामनाएँ पूर्ण की हैं, तो मेरी एक कामना को पूरा कीजिए। जैसे पृथ्वी पर गरीबों को न देखू वैसे आप भगवन् कीजिए”। इस प्रकार जीमूतवाहन के कहने पर “तुम्हारे द्वारा छोड़ दिया गया यह मैं जा रहा हूँ” इस प्रकार की आवाज़ उस पेड़ से हुई। और क्षण भर में वह कल्पवृक्ष आकाश में उठकर भूमि पर वैसे रत्नों को बरसाने लगा, जिससे कोई भी गरीब नहीं रह गया। उसके बाद उस जीमूतवाहन की सभी जीवों पर कृपा करने के बाद सब जगह यश फैल गया।

शब्दार्थाः

हिमवान् – हिमालय

नगेन्द्र: – पर्वतो का राजा

सानो: – शिखर के, चोटी के

कुलक्रमागत: – कुल परम्परा से

यौवराज्ये – युवराज के पद पर

शक्र: – इन्द्र

अर्थित: – माँगा

अन्तिकम् – पास में

वीचिवत् – तरंग की तरह

अभ्यनुज्ञात: – अनुमति पाया हुआ

अदरिद्राम् – दरिद्रता से रहित अर्थात् सम्पन्न

दिवम् – स्वर्ग

वसूनि – धन

उपगम्य – पास में जाकर

दुर्गतः – पीड़ित, निर्धन

सर्वजीवानुकम्पया – सभी जीवो के प्रति कृपा से

प्रथितम् – प्रसिद्ध हो गया

अभ्यासः

1. एकपदेन उत्तरं लिखत

(क) जीमूतवाहनः कस्य पुत्रः अस्ति ?

उत्तर. जीमूतकेतोः।

(ख) संसारेऽस्मिन् कः अनश्वरः भवति ?

उत्तर. परोपकारः

(ग) जीमूतवाहनः परोपकारैकफलसिद्धये कम् आराधयति ?

उत्तर. कल्पपादपम्।

(घ) जीमूतवाहनस्य सर्वभूतानुकम्पया सर्वत्र किं प्रथितम् ?

उत्तर. यशः

(ङ) कल्पतरुः भुवि कानि अवर्षत् ?

उत्तर. वसूनि

2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत

(क) कञ्चनपुरं नाम नगरं कुत्र विभाति स्म ?

उत्तर. कञ्चनपुरं नाम नगरं हिमवतः सानोपरि विभाति स्म।

(ख) जीमूतवाहनः कीदृशः आसीत् ?

उत्तर. जीमूतवाहनः महान् दानवीरः सर्वभूतानुकम्पी च आसीत्।

(ग) कल्पतरोः वैशिष्ट्यमाकर्ण्य जीमूतवाहनः किम् अचिन्तयत् ?

उत्तर. कल्पतरोः वैशिष्ट्यमाकर्ण्य जीमूतवाहनः अचिन्तयत् यत् “अहो! ईदृशम् अमरपादपं प्राप्यापि पूर्वैः पुरुषैः अस्माकं तादृशं फलं किमपि न प्राप्तम्। किन्तु केवलं कैश्चिदेव कृपणैः कश्चिदपि अर्थः अर्थितः। तदहम्  अस्मात् कल्पतरोः अभीष्टं साधयामि” इति।

(घ) हितैषिणः मन्त्रिणः जीमूतवाहनं किम् उक्तवन्तः ?

उत्तर. हितैषिणः मन्त्रिणः जीमूतवाहनं उक्तवन्त:-“युवराज! योऽयं सर्वकामदः कल्पतरुः तवोद्याने तिष्ठति स तव सदा पुज्यः। अस्मिन् अनुकूले स्थिते सति शक्रोऽपि अस्मान् बाधितुं न शक्नुयात्।” इति।

(ङ) जीमूतवाहनः कल्पतरुम् उपगम्य किम् उवाच ?

उत्तर. जीमूतवाहन: कल्पतरुम् उपगम्य उवाच-“देव! त्वया अस्मत्पूर्वेषाम् अभीष्टाः कामाः पूरिताः तन्ममैकं कामं पूरय। यथा पृथिवीम् अदरिद्राम् पश्यामि, तथा करोतु देव” इति।

3. अधोलिखितवाक्येषु स्थूलपदानि कस्मै प्रयुक्तानि ?

(क) तस्य सानोरुपरि विभाति कञ्चनपुरं नाम नगरम्।

उत्तर. हिमवते ( हिमालयाय )।

(ख) राजा सम्प्राप्तयौवनं तं यौवराज्ये अभिषिक्तवान् ?

उत्तर. राजपुत्राय ( जीमूतवाहनाय )

(ग) अयं तव सदा पूज्यः।

उत्तर. कल्पतरवे।

(घ) तात! त्वं तु जानासि यत् धनं वीचिवच्चञ्चलम्।

उत्तर. पित्रे ( जीमूतकेतवे राज्ञे )

4.अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत

(क) पर्वतः – नगेन्द्रः

(ख) भूपतिः – राजा

(ग) इन्द्रः – शक्रः

(घ) धनम् – अर्थः

(ङ) इच्छितम् – अभीष्टम्

(च) समीपम् – अन्तिकम्

(छ) धरित्रीम् – पृथ्वीम्

(ज) कल्याणम् – स्वस्ति

(झ) वाणी – वाक्

(ञ) वृक्षः – तरुः

5. ‘क’ स्तम्भे विशेषणानि ‘ख’ स्तम्भे च विशेष्याणि दत्तानि। तानि समुचित योजयत

‘क’ स्तम्भः‘ख’ स्तम्भः
कुलक्रमागत:कल्पतरु:
दानवीर:जीमूतवाहनः
हितैषिभिःमन्त्रिभिः
वीचिवच्चञ्चलम्धनम्
अनश्वरःपरोपकारः

6. स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत

(क) तरोः कृपया सः पुत्रम् अप्राप्नोत्।

प्रश्न. कस्य  कृपया सः पुत्रम् अप्राप्नोत्।

(ख) सः कल्पतरवे न्यवेदयत्।

प्रश्न. सः कस्मै न्यवेदयत्।

(ग) धनवृष्ट्या कोऽपि दरिद्रः नातिष्ठत्।

प्रश्न. कया  कोऽपि दरिद्रः नातिष्ठत्।

(घ) कल्पतरुः पृथिव्यां धनानि अवर्षत्।

प्रश्न. कल्पतरुः कस्याम् धनानि अवर्षत्।

(ङ) जीवानुकम्पया जीमूतवाहनस्य यशः प्रासरत्।

प्रश्न. कया जीमूतवाहनस्य यशः प्रासरत्।

7. (क) “स्वस्ति तुभ्यम्” स्वस्ति शब्दस्य योगे चतुर्थी विभक्तिः भवति। इत्यनेन नियमेन अत्र चतुर्थी विभक्तिः प्रयुक्ता । एवमेव ( कोष्ठकगतेषु पदेषु ) चतुर्थी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत

(क) स्वस्ति राज्ञे। ( राजा )

(ख) स्वस्ति प्रजाभ्यः प्रजाये। ( प्रजा )

(ग) स्वस्ति छात्राय/छात्रेभ्यः। ( छात्र )

(घ) स्वस्ति सर्वजनेभ्यः। ( सर्वजन )

(ख) कोष्ठकगतेषु पदेषु षष्ठी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत

(क) तस्य गृहस्य उद्याने कल्पतरुः आसीत्। ( गृह )

(ख) सः पितुः अन्तिकम् अगच्छत्। ( पितृ )

(ग) जीमूतवाहनस्य सर्वत्र यशः प्रथितम् | ( जीमूतवाहन )

(घ) अयं कस्य तरु: ? ( किम् )

Class – 9 Chapter – 4 KALPTARU

NCERT BOOK SOLUTIONS

NCERT SANSKRIT SOLUTION CLASS 6

NCERT SANSKRIT SOLUTION CLASS 7

NCERT SANSKRIT SOLUTION CLASS 8

NCERT SANSKRIT SOLUTION CLASS 9

NCERT SANSKRIT SOLUTION CLASS 10

https://www.youtube.com/channel/UCszz61PiBYCL-V4CbHTm1Ew/featured

https://www.instagram.com/studywithsusanskrita/

error: Content is protected !!