द्वादशः पाठः
वाङ्मनःप्राणस्वरूपम्
( हिन्दी अनुवाद )
प्रस्तुतोऽयं पाठः “ छान्दोग्योपनिषदः” षष्ठाध्यायस्य पञ्चमखण्डात् समुद्धृतोऽस्ति। पाठ्यांशे मनोविषयकं प्राणविषयकं वाग्विषयकञ्च रोचकं तथ्यं प्रकाशितम् अस्ति। अत्र उपनिषदि वर्णितगुह्यतत्त्वानां सारल्येन अवबोधार्थम् आरुणि- श्वेतकेतोः संवादमाध्यमेन वाङ्मनः प्राणानां परिचर्चा कृतास्ति। ऋषिकुलपरम्परायां ज्ञानप्राप्तेः त्रीणि साधनानि सन्ति।तेषु परिप्रश्नोऽपि एकम् अन्यतमं साधनम् अस्ति। अत्र गुरुसेवनपटुः शिष्यः वाङ्मनः प्राणविषयकान् प्रश्नान् पृच्छति आचार्यश्च तेषां प्रश्नानां समाधानं करोति।
हिन्दी अनुवाद – प्रस्तुत यह पाठ “छान्दोग्योपनिषदः” के छठे अध्याय के पञ्चमखण्ड पर आधारित हैं। पाठ के अंश में मन विषयक, प्राण विषयक और वाणी विषयक रोचक तथ्य प्रकाशित किये गए है। यहाँ उपनिषद में वर्णित गूढ़ रहस्य को बोधगम्य बनाने के लिए आरुणि श्वेतकेतु को संवाद के माध्यम से वाणी, मन और प्राण की परिचर्चा करते है। ऋषि कुल की परंपरा में ज्ञान प्राप्ति के तीन साधन बताये गये हैं। उनमे परिप्रश्न भी एक अन्य साधन हैं। यहाँ गुरु सेवा में परायण शिष्य वाणी, मन और प्राण विषयक प्रश्नों को पूछता है और आचार्य उसके प्रश्नों का समाधान करते है।
1. श्वेतकेतुः – भगवन्! श्वेतकेतुरहं वन्दे।
आरुणिः – वत्स! चिरञ्जीव।
श्वेतकेतुः – भगवन्! किञ्चित्प्रष्टुमिच्छामि।
आरुणिः – वत्स! किमद्य त्वया प्रष्टव्यमस्ति ?
श्वेतकेतुः – भगवन्! ज्ञातुम् इच्छामि यत्
किमिदं मनः ?
आरुणिः – वत्स! अशितस्यान्नस्य
योऽणिष्ठः तन्मनः।
हिन्दी अनुवाद – श्वेतकेतु – हे भगवन्! मैं श्वेतकेतु ( आपको ) प्रणाम करता हूँ।
आरुणि – हे पुत्र! दीर्घायु हो।
श्वेतकेतु – हे भगवन्! मैं कुछ पूछना चाहता हूँ ?
आरुणि – हे पुत्र! आज तुम क्या पूछना चाहते हो ?
श्वेतकेतु – हे भगवन्! मैं पूछना चाहता हूँ कि यह मन क्या है ?
आरुणि – हे पुत्र! पूर्णतः पचाए गए अन्न का सबसे छोटा भाग मन होता है।
2. श्वेतकेतुः – कश्च प्राणः ?
आरुणिः – पीतानाम् अपां योऽणिष्ठः स प्राणः।
श्वेतकेतुः – भगवन्! का इयं वाक् ?
आरुणिः – वत्स! अशितस्य तेजसा योऽणिष्ठः सा वाक्। सौम्य! मनः अन्नमयं, प्राणः आपोमयः वाक् च तेजोमयी भवति इत्यप्यवधार्यम्।
श्वेतकेतुः – भगवन्! भूय एव मां विज्ञापयतु।
आरुणिः – सौम्य! सावधानं शृणु! मथ्यमानस्य दध्नः योऽणिमा, स ऊर्ध्वः समुदीषति। अर्धविराम:। तत्सर्पिः भवति।
श्वेतकेतुः – भगवन्! भवता घृतोत्पत्तिरहस्यम् व्याख्यातम्। भूयोऽपि श्रोतुमिच्छामि।
आरुणिः – एवमेव सौम्य! अश्यमानस्य अन्नस्य योऽणिमा, स ऊर्ध्वः समुदीषति। तन्मनो भवति। अवगतं न वा ?
हिन्दी अनुवाद – श्वेतकेतु – और प्राण क्या है ?
आरुणि – पिए गए तरल द्रव्यों का सबसे छोटा भाग प्राण होता है।
श्वेतकेतु – हे भगवन्! वाणी क्या है ? ।
आरुणि – हे पुत्र! ग्रहण की गई ऊर्जा का जो सबसे छोटा भाग है, वह वाणी है। हे सौम्य! मन अन्नमय, प्राण जलमय तथा वाणी तेजोमयी होती है-यह भी समझ लेना चाहिए।
श्वेतकेतु – हे भगवन्! आप मुझे पुनः समझाइए।
आरुणि – हे सौम्य! ध्यान से सुनो। मथे जाते हुए दही की अणिमा ( मलाई ) ऊपर तैरने लगती है, उसका घी बन जाता है।
श्वेतकेतु – हे भगवन्! आपने तो घी की उत्पत्ति का रहस्य समझा दिया, मैं और भी सुनना चाहता हूँ।
आरुणि – सौम्य! इसी तरह खाए जाते हुए अन्न की अणिमा ( मलाई ) ऊपर उठती है, वह मन बन जाती है समझ गए या नहीं ?
3. श्वेतकेतुः – सम्यगवगतं भगवन्!
आरुणिः – वत्स! पीयमानानाम् अपां योऽणिमा स ऊर्ध्वः समुदीषति स एव प्राणो भवति।
श्वेतकेतुः – भगवन्! वाचमपि विज्ञापयतु।
आरुणिः – सौम्य! अश्यमानस्य तेजसो योऽणिमा, स ऊर्ध्वः समुदीषति। सा खलु वाग्भवति। वत्स!
उपदेशान्ते भूयोऽपि त्वां विज्ञापयितुमिच्छामि यत्, अन्नमयं भवति मनः, आपोमयो भवति प्राणाः तेजोमयी च भवति वागिति। किञ्च यादृशमन्नादिकं गृह्णाति मानवस्तादृशमेव तस्य
चित्तादिकं भवतीति मदुपदेशसारः। वत्स! एतत्सर्वं हृदयेन अवधारय।
श्वेतकेतुः – यदाज्ञापयति भगवन्। एष प्रणमामि।
आरुणिः – वत्स! चिरञ्जीव। तेजस्वि नौ अधीतम् अस्तु (आवयोः अधीतम् तेजस्वि अस्तु )।
हिन्दी अनुवाद – श्वेतकेतु – अच्छी तरह समझ गया भगवन्।
आरुणि – हे पुत्र! पिए जाते हुए जल की अणिमा प्राण बन जाती है।
श्वेतकेतु – हे भगवन्! वाणी के बारे में भी समझाए।
आरुणि – हे सौम्य! शरीर द्वारा ग्रहण किए गए तेज ( ऊर्जा ) की अणिमा वाणी बन जाती है। हे पुत्र!
उपदेश के अंत में मैं तुम्हें पुनः यही समझाना चाहता हूँ कि अन्न का सारतत्व मन, जल का प्राण तथा तेज का वाणी है। इसके अतिरिक्त अधिक क्या, मेरे उपदेश का सार यही है कि मनुष्य जैसा अन्न ग्रहण करता है उसका मन, बुद्धि और अहंकार ( चित्त ) वैसा ही बन जाता है। हे पुत्र! इस सबको हृदय में धारण कर लो। (अच्छी प्रकार से समझ लो )
श्वेतकेतु – जैसी आपकी आज्ञा भगवन्! मैं आपको प्रणाम करता हूँ।
आरुणि – हे पुत्र! दीर्घायु हो, तुम्हारा अध्ययन तेजस्विता से युक्त हो। ( हम दोनों द्वारा पढ़ा हुआतेजयुक्त हो )।
शब्दार्थाः
प्रष्टुम् – प्रश्न करने / पूछने के लिए
प्रष्टव्यम् – पूछने योग्य
अशितस्य – खाये हुए का
अणिष्ठः – अत्यन्त लघु अथवा सर्वाधिक लघु
अन्नमयम् – अन्न से निर्मित
आपोमयः – जल में परिणत
तेजोमयः – अग्नि का परिन्मभूत
अवधार्यम् – समझने योग्य
विज्ञापयतु – समझाइये
भूयोऽपि – एक बार और
समुदीषति – ऊपर उठता है
सर्पिः – घी
अश्यमानस्य – खाये जाते हुए का
उपदेशान्ते – व्याख्यान के अंत मे
तेजस्वि – तेजस्विता से युक्त
नौ अधीतम् – हम दोनो द्वारा पढा हुआ
अभ्यासः
1. एकपदेन उत्तरं लिखत
(क)अन्नस्य कीदृशः भागः मनः ?
उत्तर. अणिष्ठः।
(ख) मथ्यमानस्य दध्नः अणिष्ठः भागः किं भवति ?
उत्तर. सर्पिः।
(ग) मनः कीदृशं भवति ?
उत्तर. अन्नमयम्।
(घ) तेजोमयी का भवति ?
उत्तर. वाक्।
(ङ) पाठेऽस्मिन् आरुणिः कम् उपदिशति ?
उत्तर. श्वेतकेतुम्।
(च) “वत्स! चिरञ्जीव” – इति कः वदति ?
उत्तर. आरुणिः।
(छ) अयं पाठः कस्मात् उपनिषदः संगृहीतः ?
उत्तर. छान्दोग्योपनिषदः।
2. अधोलिखितानांप्रश्नानामुत्तराणि संस्कृतभाषया लिखत
(क) श्वेतकेतुः सर्वप्रथमम् आरुणिं कस्य स्वरूपस्य विषये पृच्छति ?
उत्तर. श्वेतकेतु सर्वप्रथमं आरुणिं मनसः स्वरूपस्य विषये पृच्छति।
(ख) आरुणिः प्राणस्वरूपं कथं निरूपयति ?
उत्तर. आरुणिः निरूपयति यत्- “पीतानाम् अपां योऽणिष्ठः स प्राणः।”
(ग) मानवानां चेतांसि कीदृशानि भवन्ति ?
उत्तर. मानवाः यादृशम् अन्नं गृह्णन्ति तेषां चेतांसि अपि तादृशानि एव भवन्ति।
(घ) सर्पिः किं भवति ?
उत्तर. मथ्यमानस्य दध्नः योऽणिमा , स ऊर्ध्वः समुदीषति, तत् सर्पिः भवति।
(ङ) आरुणे: मतानुसारं मनः कीदृशं भवति ?
उत्तर. आरुणे: मतानुसारं मनः अन्नमयं भवति।
3. (अ) ‘अ’ स्तम्भस्य पदानि ‘ब’ स्तम्भेन दत्तैः पदैः सह यथायोग्यं योजयत
उत्तर.
अ | ब |
मनः | अन्नमयम् |
प्राणः | आपोमयः |
वाक् | तेजोमयी |
(आ) अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत
1. गरिष्ठः – अणिष्ठः
2. अधः – ऊर्ध्वः
3. एकवारम् – भूयः
4. अनवधीतम् – अधीतम्
5. किञ्चित् – सर्वम्।
4. उदाहरणमनुसृत्य निम्नलिखितेषु क्रियापदेषु ‘तुमुन्’ प्रत्ययं योजयित्वा पदनिर्माणं कुरुत
यथा – प्रच्छ् + तुमुन् – प्रष्टुम्
(क) श्रु + तुमुन् – श्रोतुम्।
(ख) वन्द् + तुमुन् – वन्दितुम्।
(ग) पठ् + तुमुन् – पठितुम्।
(घ) कृ + तुमुन् – कर्तुम्।
(ङ) वि + ज्ञा + तुमुन् – विज्ञातुम्।
(च) वि + आ + ख्या + तुमुन् – व्याख्यातुम्।
5. निर्देशानुसारं रिक्तस्थानानि पूरयत
(क) अहं किञ्चित् प्रष्टुम् इच्छामि।
(ख) मनः अन्नमयं भवति।
(ग) सावधानं श्रृणु।
(घ) तेजस्वि नौ अधीतम् अस्तु।
(ङ) श्वेतकेतुः आरुणे: शिष्यः आसीत्।
(अ) उदाहरणनुसृत्य वाक्यानि रचयत
यथा – अहं स्वदेशं सेवितुम् इच्छामि।
(क) अहं शिष्यं उपदिशामि।
(ख) अहं गुरुं प्रणमामि।
(ग) अहं सेवकं आज्ञापयामि।
(घ) अहं प्रश्नं पृच्छामि।
(ङ) अहं सर्वं वृतान्तम् अवगच्छामि।
6. (अ) सन्धिं कुरुत
1. अशितस्य + अन्नस्य – अशितस्यान्नस्य।
2. इति + अपि + अवधार्यम् – इत्यप्यवधार्यम्।
3. का + इयम् – केयम्।
4. नौ + अधीतम् – नावधीतम्।
5. भवति + इति – भवतीति।
(आ) स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत
(i) मथ्यमानस्य दध्नः अणिमा ऊर्ध्वं समुदीषति।
प्रश्न. कीदृशस्य दध्नः अणिमा ऊर्ध्व समुदीषति ?
(ii) भवता घृतोत्पत्तिरहस्यं व्याख्यातम्।
प्रश्न. केन घृतोत्पत्तिरहस्यं व्याख्यातम् ?
(iii) आरुणिम् उपगम्य श्वेतकेतुः अभिवादयति।
प्रश्न. आरुणिं उपगम्य कः अभिवादयति ?
(iv) श्वेतकेतुः वाग्विषये पृच्छति।
प्रश्न. श्वेतकेतुः कस्य विषये पृच्छति ?
7. पाठस्य सारांशं पञ्चवाक्यैः लिखत
उत्तर.
अस्मिन् पाठे आरुणिः श्वेतकेतुं उपदिशति।
अन्नमयं भवति मनः।
आपोमयः भवति प्राणः।
तेजोमयी भवति वाक्।
मनुष्यः यादृशम् अन्नादिकं खादति तादृशमेव तस्य चित्तादिकं भवति।
NCERT BOOK SOLUTIONS
NCERT SANSKRIT SOLUTION CLASS 6
NCERT SANSKRIT SOLUTION CLASS 7
NCERT SANSKRIT SOLUTION CLASS 8
NCERT SANSKRIT SOLUTION CLASS 9
NCERT SANSKRIT SOLUTION CLASS 10
YOUTUBE LINK: STUDY WITH SUSANSKRITA
https://www.youtube.com/channel/UCszz61PiBYCL-V4CbHTm1Ew/featured