CLASS – 8 SANSKRIT RUCHIRA PART – 3 CHAPTER – 9 SAPTBHAGINYA | HINDI TRANSLATION | QUESTION ANSWER | कक्षा – 8 संस्कृत रुचिरा भाग – 3 नवम: पाठः सप्तभगिन्य: | हिन्दी अनुवाद | अभ्यासः
Class – 8 Chapter – 9 SAPTBHAGINYA
नवम: पाठ:
सप्तभगिन्यः
NCERT BOOK SOLUTIONS | SOLUTIONS FOR NCERT SANSKRIT CLASS 8 CHAPTER 9 IN HINDI
( हिन्दी अनुवाद )
(क) अध्यापिका – सुप्रभातम्।
छात्राः – सुप्रभातम्। सुप्रभातम्।
अध्यापिका – भवतु। अद्य किं पठनीयम् ?
छात्राः – वयं सर्वे स्वदेशस्य राज्यानां विषये ज्ञातुमिच्छामः।
अध्यापिका – शोभनम्। वदत। अस्माकं देशे कति राज्यानि सन्ति ?
सायरा – चतुर्विंशतिः महोदये!
सिल्वी – न हि न हि महाभागे! पञ्चविंशतिः राज्यानि सन्ति।
अध्यापिका – अन्यः कोऽपि …?
स्वरा – ( मध्ये एव ) महोदये! मे भगिनी कथयति यदस्माकं देशे नवविंशतिः राज्यानि सन्ति। एतदतिरिच्य सप्त केन्द्रशासितप्रदेशाः अपि सन्ति।
हिन्दी अनुवाद
अध्यापिका – सुप्रभात।
छात्राएँ – सुप्रभात, सुप्रभात।
अध्यापिका – अच्छा, आज क्या पढ़ना है ?
छात्राएँ – हम सभी अपने देश के राज्यों के विषय में जानना चाहती हैं।
अध्यापिका – अच्छा। बोलो। हमारे देश में कितने राज्य हैं ?
सायरा – महोदया, चौबीस।
सिल्वी – नहीं, नहीं। महाभागा ! पच्चीस राज्य हैं।
अध्यापिका – कोई अन्य भी …………।
स्वरा – ( बीच में ही ) महोदया, मेरी बहन कहती है कि हमारे देश में उन्नतीस राज्य हैं। इसके अतिरिक्त सात केन्द्रशासित प्रदेश भी हैं।
(ख) अध्यापिका – सम्यग्जानाति ते भगिनी। भवतु, अपि जानीथ यूयं यदेतेषु राज्येषु सप्तराज्यानाम् एकः समवायोऽस्ति यः सप्तभगिन्यः इति नाम्ना प्रथितोऽस्ति।
सर्वे – (साश्चर्यम् परस्परं पश्यन्तः) सप्तभगिन्यः ? सप्तभगिन्यः ?
निकोलसः – इमानि राज्यानि सप्तभगिन्यः इति किमर्थं कथ्यन्ते ?
अध्यापिका – प्रयोगोऽयं प्रतीकात्मको वर्तते। कदाचित् सामाजिक-सांस्कृतिक
परिदृश्यानां साम्याद् इमानि उक्तोपाधिना प्रथितानि।
समीक्षा – कौतूहलं मे न खलु शान्तिं गच्छति, श्रावयतु तावत् यत् कानि तानि राज्यानि ?
हिन्दी अनुवाद
अध्यापिका – तुम्हारी बहन अच्छी प्रकार जानती है। ठीक है, क्या तुम जानते हो कि इन राज्यों में सात राज्यों का एक समूह है, जो ‘सात बहनें’ इस नाम से प्रसिद्ध है।
सभी – (आश्चर्यपूर्वक एक-दूसरे को देखते हुए ) सात बहनें ? सात बहनें ?
निकोलस – ये राज्य ‘सात बहनें’ इस नाम से किस प्रकार कहे जाते हैं ?
अध्यापिका – यह प्रयोग सांकेतिक है। संभवतः सामाजिक और सांस्कृतिक वातावरण की समानता के कारण ये उक्त उपाधि ( अर्थात् विशेषण ) के द्वारा प्रसिद्ध हो गए हों।
समीक्षा – मेरी जिज्ञासा शान्त नहीं हो रही है। सुनाइए, वे कौन-से राज्य हैं ?
(ग) अध्यापिका – श्रृणुत!
अद्वयं मत्रयं चैव न-त्रि-युक्तं तथा द्वयम्।
सप्तराज्यसमूहोऽयं भगिनीसप्तकं मतम्॥
इत्थं भगिनीसप्तके इमानि राज्यानि सन्ति-अरुणाचलप्रदेशः, असमः, मणिपुरम्, मिजोरमः, मेघालयः, नगालैण्डः, त्रिपुरा चेति। यद्यपि क्षेत्रपरिमाणैः इमानि लघूनि वर्तन्ते तथापि गुणगौरवदृष्ट्याबृहत्तराणि प्रतीयन्ते।
सर्वे – कथम् ? कथम् ?
हिन्दी अनुवाद
अध्यापिका – सुनो,
‘अ’ वर्ण से प्रारम्भ होने वाले (अरुणाचल और असम ) दो, ‘म’ वर्ण से प्रारम्भ होने वाले ( यथा मणिपुर, मिजोरम और मेघालय ) तीन, तथा ‘न’ वर्ण और ‘त्रि’ से प्रारम्भ होने वाले ( यथा-नगालैण्ड और त्रिपुरा ) दो-यह सात राज्यों का समूह ‘भगिनी सप्तक’ के नाम से जाना जाता है। इस प्रकार ‘भगिनी सप्तक’ में ये राज्य हैं-अरुणाचलप्रदेश, असम, मणिपुर, मिजोरम, मेघालय, नगालैण्ड और त्रिपुरा। यद्यपि क्षेत्रफल की दृष्टि से ये ( राज्य ) छोटे हैं, फिर भी गुण और गौरव की दृष्टि से बड़े प्रतीत होते हैं।
सभी – कैसे ? कैसे ?
(घ) अध्यापिका – इमाः सप्तभगिन्यः स्वीये प्राचीनेतिहासे प्रायः स्वाधीनाः एव दृष्टाः। न केनापि शासकेन इमाः स्वायत्तीकृताः।
अनेक-संस्कृति-विशिष्टायां भारतभूमौ एतासां भगिनीनां संस्कृतिः महत्त्वाधायिनी इति।
तन्वी – अयं शब्दः सर्वप्रथमं कदा प्रयुक्तः ?
अध्यापिका – श्रुतमधुरशब्दोऽयं सर्वप्रथमं विगतशताब्दस्य द्विसप्ततितमे वर्षे त्रिपुराराज्यस्योद्घाटनक्रमे केनापि प्रवर्तितः। अस्मिन्नेव काले एतेषां राज्यानां पुनः सङ्घटनंविहितम्।
हिन्दी अनुवाद
अध्यापिका – ये सात बहनें अपने प्राचीन इतिहास में प्रायः स्वाधीन ही दिखाई देती हैं। किसी भी शासक ने इन्हें अपने अधीन नहीं किया। अनेक संस्कृतियों से विशिष्ट भारतभूमि में इन बहनों की संस्कृति महत्त्वपूर्ण है।
तन्वी – सबसे पहले इस शब्द का प्रयोग कब हुआ ?
अध्यापिका – सुनने में मधुर लगने वाला यह शब्द पिछली सदी के बहत्तरवें साल में (1972 ई.) त्रिपुरा राज्य के उद्घाटन क्रम में किसी के द्वारा प्रयोग किया गया। इस समय ही इन राज्यों का पुनः गठन किया गया।
(ङ) स्वरा – अन्यत् किमपि वैशिष्ट्यमस्ति एतेषाम् ?
अध्यापिका – नूनम् अस्ति एव। पर्वत-वृक्ष-पुष्प-प्रभृतिभिः प्राकृतिकसम्पद्भिः सुसमृद्धानि
सन्ति इमानि राज्यानि।भारतवृक्षे च पुष्पस्तबकसदृशानि विराजन्ते एतानि।
राजीवः – भवति! गृहे यथा सर्वाधिका रम्या मनोरमा च भगिनी भवति तथैव
भारतगृहेऽपि सर्वाधिकाः रम्याः इमाः सप्तभगिन्यः सन्ति।
हिन्दी अनुवाद
स्वरा – इनकी दूसरी भी कोई विशेषता है।
अध्यापिका – अवश्य ही है। पर्वत, वृक्ष तथा पुष्प आदि प्राकृतिक सम्पदाओं के द्वारा ये राज्य समृद्ध हैं। भारत रूपी वृक्ष पर ये ( राज्य ) फूलों के गुलदस्ते के समान विराजमान हैं।
राजीव – आप ! जिस प्रकार घर में बहन सबसे अधिक रमणीय और सुन्दर होती है, उसी प्रकार भारत रूपी घर में ये सात बहनें सबसे अधिक सुन्दर हैं।
(च) अध्यापिका – मनस्यागता ते इयं भावना परमकल्याणमयी परं सर्वे न तथा अवगच्छन्ति। अस्तु, अस्ति तावदेतेषां विषये किञ्चिद् वैशिष्ट्यमपि कथनीयम्। सावहित मनसा श्रृणुत-
जनजातिबहुलप्रदेशोऽयम्। गारो-खासी-नगा-मिजो-प्रभृतयः बहवः जनजातीयाः अत्र निवसन्ति। शरीरेण ऊर्जस्विनः एतत्प्रादेशिकाः बहुभाषाभिः समन्विताः, पर्वपरम्पराभिः परिपूरिताः, स्वलीलाकलाभिश्च निष्णाताः सन्ति।
मालती – महोदये! तत्र तु वंशवृक्षा अपि प्राप्यन्ते ?
हिन्दी अनुवाद
अध्यापिका – तुम्हारे मन में आई हुई यह भावना परमकल्याणमयी है, परन्तु सभी ऐसा नहीं सोचते हैं। ठीक है, इनके विषय में कुछ विशेषता भी कहनी चाहिए। सावधान मन से सुनो –
यह जनजाति बहुल प्रदेश है। गारो, खासी, नगा तथा मिजो आदि अनेक जनजातियाँ यहाँ निवास करती हैं। शरीर से ऊर्जा से भरे हुए इन प्रदेशों के निवासी अनेक भाषाओं से युक्त त्योहारों की परम्पराओं से पूर्ण अपनी क्रियाओं और कलाओं में प्रवीण होते हैं।
मालती – महोदया! वहाँ तो बाँस के वृक्ष भी प्राप्त होते हैं ?
(छ) अध्यापिका – आम्। प्रदेशेऽस्मिन् हस्तशिल्पानां बाहुल्यं वर्तते। आवस्त्राभूषणेभ्यः
गृहनिर्माणपर्यन्तं प्रायः वंशवृक्षनिर्मितानां वस्तूनाम् उपयोगः क्रियते। यतो हि अत्र वंशवृक्षाणां प्राचुर्यं विद्यते। साम्प्रतं वंशोद्योगोऽयं अन्ताराष्ट्रियख्यातिम् अवाप्तोऽस्ति।
अभिनवः – भगिनीप्रदेशोऽयं बह्वाकर्षकः इति प्रतीयते।
सलीमः – किं भ्रमणाय भगिनीप्रदेशोऽयं समीचीनः?
सर्वे छात्राः – (उच्चैः) महोदये! आगामिनि अवकाशे वयं तत्रैव गन्तुमिच्छामः।
स्वरा – भवत्यपि अस्माभिः सार्द्धं चलतु।
अध्यापिका – रोचते मेऽयं विचारः। एतानि राज्यानि तु भ्रमणार्थं स्वर्गसदृशानि इति।
हिन्दी अनुवाद
अध्यापिका – हाँ। इस प्रदेश में हस्तशिल्पों की अधिकता है। वस्त्र व आभूषणों से लेकर घरों के निर्माण तक प्रायः बाँस के वृक्षों से निर्मित वस्तुओं का उपयोग किया जाता है। क्योंकि यहाँ बाँस के वृक्षों की अधिकता है। अब यह बाँसों का उद्योग ( व्यवसाय ) अन्तर्राष्ट्रीय प्रसिद्धि को प्राप्त हो गया है।
अभिनव – यह भगिनीप्रदेश अत्यधिक आकर्षक लगता है।
सलीम – क्या भ्रमण के लिए यह भगिनीप्रदेश उचित है ?
सभी छात्र – ( जोर से ) महोदया ! आने वाले अवकाश में हम सभी वहाँ ही जाना चाहते हैं।
स्वरा – आप भी हमारे साथ चलें।
अध्यापिका – मुझे यह विचार अच्छा लगता है। ये राज्य भ्रमण के लिए स्वर्ग के समान हैं।
शब्दार्था:
बाढम् – बहुत अच्छा
पठनीयम् – पढना चाहिए
ज्ञातुम् – जानने के लिए
कति – कितने
चतुर्विंशतिः – चौबीस
पञ्चविंशतिः – पचीस
भगिनी – बहन
अष्टाविंशतिः – अठाईस
केन्द्रशासितप्रदेशाः – केंद्र द्वारा शासित प्रदेश
अतिरिच्य – अतिरिक्त
भवतु – अच्छा
समवायः – समूह
प्रथितः – प्रसिद्ध
प्रतीकात्मकः ( प्रतीक + आत्मकः ) – सांकेतिक
कदाचित् – सम्भवत:
साम्याद् – समानता के कारण
उक्तोपाधिना ( उक्त + उपाधिना ) – कही गयी उपाधि से / के कारण
नाम्नि – नाम से
संशयः – सन्देह
अपरतः – दूसरी ओर
क्षेत्रपरिमाणैः – क्षेत्रफल से
लघूनि – छोटे
गुणगौरवदृष्टया – गुण एवं गौरव की दृष्टि से
बृहत्तराणि – बड़े
स्वाधीनाः ( स्व + अधीनाः ) – स्वतन्त्र
स्वायत्तीकृताः – अपने अधीन किये गए
महत्त्वाधायिनी ( महत्त्व + आधायिनी ) – महत्त्व को रखने वाली
श्रुतमधुरशब्दः – सुनने में मधुर शब्द
प्रभृतिभिः – आदि से
विहितम् – विधिपूर्वक किया गया
प्राकृतिकसम्पद्भिः – प्राकृतिक सम्पदाओं से
सुसमृद्धानि – बहुत समृद्ध
भारतवृक्षे – भारत रूपी वृक्ष में / पर
पुष्पस्तबकसदृशानि – पुष्प के गुच्छे के समान
हृद्या – प्रिय ( हृदय को प्रिय लगने वाली )
रम्या – रमणीय
सावहितमनसा – सावधान मन से
ऊर्जस्विनः – ऊर्जा युक्त
पर्वपरम्पराभिः – पर्वो की परम्परा
परिपूरिताः – पूर्ण, भरे- पूरे
समभिनन्दनीयम् – स्वागत योग्य
समीचीन: – बहुत अच्छा
स्वलीलाकलाभि: – अपनी क्रिया एवं कलाओं से
निष्णाता: – पारंगत, निपुण
वंशवृक्षनिर्मितानाम् – बाँस के वृक्षो से निर्मित
अवाप्त: – प्राप्त
बह्वाकर्षक: ( बहु + आकर्षक: ) – अत्यन्त आकर्षक / अत्यधिक आकर्षक
अभ्यासः
1. उच्चारणं कुरुत
सुप्रभातम् | महत्त्वाधायिनी | पर्वपरम्पराभिः |
चतुर्विंशतिः | द्विसप्ततितमे | वंशवृक्षनिर्मितानाम् |
सप्तभगिन्यः | प्राकृतिकसम्पद्भिः | वंशोद्योगोऽयम् |
गुणगौरवदृष्ट्या | पुष्पस्तबकसदृशानि | अन्ताराष्ट्रियख्यातिलिखत |
2. प्रश्नानाम्उत्तराणि एकपदेन लिखत
(क) अस्माकं देशे कति राज्यानि सन्ति ?
उत्तर. अष्टाविंशतिः।
(ख) प्राचीनेतिहासे काः स्वाधीनाः आसन् ?
उत्तर. सप्तभगिन्यः।
(ग) केषां समवायः ‘सप्तभगिन्यः’ इति कथ्यते ?
उत्तर. सप्तराज्यानाम्।
(घ) अस्माकं देशे कति केन्द्रशासितप्रदेशाः सन्ति ?
उत्तर. सप्त।
(ङ) सप्तभगिनी-प्रदेशे कः उद्योगः सर्वप्रमुखः ?
उत्तर. वंशोद्योग:/वंश:।
3. पूर्णवाक्येनउत्तराणि लिखत
(क) भगिनीसप्तके कानि राज्यानि सन्ति ?
उत्तर. भगिनीसप्तके अरुणाचलप्रदेशः, असमः, मणिपुरम्, मिजोरमः, मेघालयः, नगालैण्डः, त्रिपुरा चेति सप्त राज्यानि सन्ति।
(ख) इमानि राज्यानि सप्तभगिन्यः इति किमर्थं कथ्यन्ते ?
उत्तर. प्रयोगोऽयं प्रतीकात्मको वर्तते। कदाचित् सामाजिक-सांस्कृतिक-परिदृश्यानां इमानि उक्तोपाधिना प्रथितानि।।
(ग) सप्तभगिनी-प्रदेशे के निवसन्ति ?
उत्तर. सप्तभगिनी-प्रदेशेगारो-खासी-नगा-मिजो-प्रभृतयः बहवः जनजातीयाः निवसन्ति।
(घ) एतत्प्रादेशिकाः कैः निष्णाताः सन्ति ?
उत्तर. एतत्प्रादेशिकाःस्वलीला कलाभिश्च निष्णाताः सन्ति।
(ङ) वंशवृक्षवस्तूनाम् उपयोगः कुत्र क्रियते ?
उत्तर. वंशवृक्षवस्तूनाम् उपयोगः आवस्त्राभूषणेभ्यः गृहनिर्माणपर्यन्तं क्रियते।
4. रेखांकितपदमाधृत्यप्रश्ननिर्माणं कुरुत
(क) वयं स्वदेशस्य राज्यानां विषये ज्ञातुमिच्छामि।
प्रश्न. वयं कस्य राज्यानां विषये ज्ञातुमिच्छामि ?
(ख) सप्तभगिन्यः प्राचीनेतिहासे प्रायः स्वाधीनाः एव दृष्टाः।
प्रश्न. काः प्राचीनेनिहासे प्रायः स्वाधीनाः एव दृष्टाः ?
(ग) प्रदेशेऽस्मिन् हस्तशिल्पानां बाहुल्यं वर्तते।
प्रश्न . प्रदेशेऽस्मिन् केषाम् बाहुल्यं वर्तते ?
(घ) एतानि राज्यानि तु भ्रमणार्थं स्वर्गसदृशानि।
प्रश्न. एतानिराज्यानि तु भ्रमणार्थं कीदृशाणि ?
5. यथानिर्देशमुत्तरत
(क) ‘महोदये! मे भगिनी कथयति’-अत्र ‘मे’ इति सर्वनामपदं कस्यै प्रयुक्तम् ?
उत्तर. महोदये! मे भगिनी कथयति’-अत्र ‘मे’ इति सर्वनामपदं स्वरायै प्रयुक्तम्।
(ख) समाजिक-सांस्कृतिकपरिदृश्यानां साम्याद् इमानि उक्तोपाधिना प्रथितानि-अस्मिन् वाक्ये प्रथितानि इति क्रियापदस्य कर्तृपदं किम् ?
उत्तर. समाजिक-सांस्कृतिकपरिदृश्यानां साम्याद् इमानि उक्तोपाधिना प्रथितानि-अस्मिन् वाक्ये प्रथितानि इति क्रियापदस्य कर्तृपदं इमानि ।
(ग) एतेषां राज्यानां पुनः सङ्घटनम् विहितम्-अत्र ‘सङ्घटनम्’ इति कर्तृपदस्य क्रियापदं किम् ?
उत्तर. एतेषां राज्यानां पुनः सङ्घटनम् विहितम्-अत्र ‘सङ्घटनम्’ इति कर्तृपदस्य क्रियापदं विहितम्।
(घ) अत्र वंशवृक्षाणां प्राचुर्यम् विद्यते-अस्मात् वाक्यात् ‘अल्पता’ इति पदस्य विपरीतार्थकं पदं चित्वा लिखत-
उत्तर. अत्रवंशवृक्षाणां प्राचुर्यम् विद्यते-अस्मात् वाक्यात् ‘अल्पता’ इति पदस्य विपरीतार्थकं पदं अस्ति।
(ङ) ‘क्षेत्रपरिमाणैः इमानि लघूनि वर्तन्ते’-वाक्यात् ‘सन्ति’ इति क्रियापदस्य समानार्थकपदं चित्वा लिखत ?
उत्तर. ‘क्षेत्रपरिमाणैः इमानि लघूनि वर्तन्ते’-वाक्यात् ‘सन्ति’ इति क्रियापदस्य समानार्थकपदं वर्तन्ते अस्ति।
6. (अ) पाठात् चित्वा तद्भवपदानां कृते संस्कृतपदानि लिखत
तद्भव – पदानि | संस्कृत – पदानि |
यथा – सात | सप्त |
बहिन | भगिनी |
संगठन | संङ्घटनम् |
बांस | वंशम् |
आज | अद्य |
खेत | क्षेत्रम् |
(आ) भिन्नप्रकृतिकं पदं चिनुत
(क) गच्छति, पठति, धावति, अहसत्, क्रीडति।
(ख) छात्रः, सेवकः, शिक्षकः, लेखिका, क्रीडकः।
(ग) पत्रम्, मित्रम्, पुष्पम्, आम्रः, फलम्, शाखा।
(घ) व्याघ्रः, भल्लूकः, गजः, कपोतः, वृषभः, सिंहः।
(ङ) पृथिवी, वसुन्धरा, धरित्री, यानम्, वसुधा।
उत्तर.
(क) अहसत्
(ख) लेखिका
(ग) शाखा
(घ) कपोतः
(ङ) यानम्।
7. विशेष्य-विशेषणानाम् उचितं मेलनम् कुरुत
विशेष्य – पदानि | विशेषण – पदानि |
अयम् | प्रदेशः |
संस्कृतिविशिष्टायाम् | भारतभूमौ |
महत्त्वाधायिनी | संस्कृतिः |
प्राचीने | इतिहासे |
एकः | समवाये |
Class – 8 Chapter – 9 SAPTBHAGINYA
NCERT BOOK SOLUTIONS
NCERT SANSKRIT SOLUTION CLASS 6
NCERT SANSKRIT SOLUTION CLASS 7
NCERT SANSKRIT SOLUTION CLASS 8
NCERT SANSKRIT SOLUTION CLASS 9
NCERT SANSKRIT SOLUTION CLASS 10
YOUTUBE LINK: STUDY WITH SUSANSKRITA
https://www.youtube.com/channel/UCszz61PiBYCL-V4CbHTm1Ew/featured