CLASS – 8 SANSKRIT RUCHIRA PART – 3 CHAPTER – 5 KANTAKENAIV KANTAKAM | HINDI TRANSLATION | QUESTION ANSWER | कक्षा – 8 संस्कृत रुचिरा भाग – 3 पञ्चम: पाठः कण्टकेनैव कण्टकम् | हिन्दी अनुवाद | अभ्यासः
Class – 8 Chapter – 5 KANTAKENAIV KANTAKAM
पञ्चमः पाठः
कण्टकेनैव कण्टकम्
NCERT BOOK SOLUTIONS | SOLUTIONS FOR NCERT SANSKRIT CLASS 8 CHAPTER 5 IN HINDI
( हिन्दी अनुवाद )
( मध्य प्रदेश के डिण्डोरी जिले में परधानों के बीच प्रचलित एक लोककथा हैं। यह पञ्चतन्त्र की शैली में रचित है। इस कथा में यह स्पष्ट किया गया है कि संकट में चतुराई और प्रत्युत्पन्नमति से बाहर निकला जा सकता है )
आसीत् कश्चित् चञ्चलो नाम व्याधः। पक्षिमृगादीनां ग्रहणेन सः स्वीयां जीविकां निर्वाहयति स्म। एकदा सः वने जालं विस्तीर्य गृहम् आगतवान्। अन्यस्मिन् दिवसे प्रातःकाले यदा चञ्चल: वनं गतवान् तदा सः दृष्टवान् यत् तेन विस्तारिते जाले दौर्भाग्याद् एकः व्याघ्रः बद्धः आसीत्। सोऽचिन्तयत्, ‘व्याघ्रः मां खादिष्यति अतएव पलायनं करणीयम्।’ व्याघ्रः न्यवेदयत्-‘भो मानव! कल्याणं भवतु ते। यदि त्वं मां मोचयिष्यसि तर्हि अहं त्वां न हनिष्यामि।’
हिन्दी अनुवाद – चञ्चल नामक कोई शिकारी था। वह पक्षियों और पशुओं आदि को पकड़ कर अपनी जीविका का निर्वाह करता था। एक बार वह जंगल में जाल फैलाकर घर आ गया। दूसरे दिन प्रातःकाल जब चञ्चल वन में गया, तब उसने देखा कि उसके द्वारा फैलाए गए जाल में दुर्भाग्य से एक बाघ बँधा हुआ था। उसने सोचा – ‘बाघ मुझे खा जाएगा। अत: भाग जाना चाहिए’। बाघ ने निवेदन किया – अरे मानव! तुम्हारा कल्याण हो । यदि तुम मुझे छुड़ा दोगे तो मैं तुम्हें नहीं मारूँगा।
तदा सः व्याधः व्याघ्रं जालात् बहिः निरसारयत्। व्याघ्रः क्लान्तः आसीत्। सोऽवदत्, ‘भो मानव! पिपासुः अहम्। नद्याः जलमानीय मम पिपासां शमय। व्याघ्रः जलं पीत्वा पुनः व्याधमवदत्, शमय मे पिपासा। साम्प्रतं बुभुक्षितोऽस्मि। इदानीम् अहं त्वां खादिष्यामि।’ चञ्चलः उक्तवान्, ‘अहं त्वत्कृते धर्मम् आचरितवान्। त्वया मिथ्या भणितम्। त्वं मां खादितुम् इच्छसि ?
हिन्दी अनुवाद – तब उस शिकारी ने बाघ को जाल से बाहर निकाल दिया। बाघ थका हुआ था वह बोला – “ अरे मानव! मैं प्यास हूँ। नदी से जल लाकर मेरी प्यास को शांत करो। बाघ ने जल पीकर फिर शिकारी को बोला – ‘ मेरी प्यास शांत हुई। अब मैं भूखा हूँ। अब मैं तुम्हे खाऊँगा।’ चंचल ने कहा – मैंने तुम्हारे लिए धर्म का आचरण किया। ( परन्तु ) तुमने झूठ बोला है तुम मुझे कहना चाहते हो।
व्याघ्रः अवदत्, ‘अरे मूर्ख! क्षुधार्ताय किमपि अकार्यम् न भवति। सर्वः स्वार्थं समीहते’ चञ्चलः नदीजलम् अपृच्छत्। नदीजलम् अवदत्, ‘एवमेव भवति, जनाः मयि स्नानं कुर्वन्ति, वस्त्राणि प्रक्षालयन्ति तथा च मल-मूत्रादिकं विसृज्य निवर्तन्ते, वस्तुतः सर्वः स्वार्थं समीहते। चञ्चल: वृक्षम् उपगम्य अपृच्छत्।वृक्षः अवदत्, ‘मानवाः अस्माकं छायायां विरमन्ति। अस्माकं फलानि खादन्ति, पुनः कुठारैः प्रहृत्य अस्मभ्यं सर्वदा कष्टं ददति। यत्र कुत्रापि छेदनं कुर्वन्ति। सर्वः स्वार्थं समीहते।’
हिन्दी अनुवाद – बाघ बोला, ‘अरे मूर्ख! भूखे के लिए कुछ भी अनुचित नही होता। सभी अपना स्वार्थ चाहते है’ चंचल ने नदी के जल से पूछा। नदी के जल ने कहा ‘ ऐसा ही होता है लोग मेरे जल में स्नान करते है, वस्त्र धोते है और मल मूत्र आदि का त्याग करके वापस लौट जाते है, वास्तव में सभी अपना स्वार्थ चाहते है। चंचल ने वृक्ष के पास जाकर पूछा। वृक्ष बोला -“ मानव हमारी छाया में आराम करते है। हमारे फलो को खाते है, फिर कुल्हाड़ी से प्रहार करके हमे हमेशा कष्ट देते है। जहाँ कहीं भी छेद कर देते हैं। सभी अपना स्वार्थ चाहते है।
समीपे एका लोमशिका बदरी-गुल्मानां पृष्ठे निलीना एतां वार्ता शृणोति स्म। सा सहसा चञ्चलमुपसृत्य कथयति-“का वार्ता? माम् अपि विज्ञापय।” सः अवदत्-“अहह मातृस्वसः! अवसरे त्वं समागतवती। मया अस्य व्याघ्रस्य प्राणाः रक्षिताः, परम् एषः मामेव खादितुम् इच्छति।” तदनन्तरं सः लोमशिकायै निखिला कथां न्यवेदयत्।
हिन्दी अनुवाद – पास में एक लोमड़ी बेर की झाड़ियो के पीछे छिपी हुई सारी बातें सुन रही थीं। वह अचानक चंचल के पास आकर कहती है- “ क्या बात है ? मुझे भी बताओ।” वह बोला – अरे मौसी ! तुम ठीक समय पर आई हो। मैने इस बाघ के प्राणों की रक्षा की, परंतु यह मुझे ही खाना चाहता है।” इसके बाद उसने लोमड़ी को सम्पूर्ण कथा बता दी।
लोमशिका चञ्चलम् अकथयत्-बाढम्, त्वं जालं प्रसारय। पुनः सा व्याघ्रम् अवदत्-केन प्रकारेण त्वम् एतस्मिन् जाले बद्धः इति अहं प्रत्यक्षं द्रष्टुमिच्छामि। व्याघ्रः तद् वृत्तान्तं प्रदर्शयितुं तस्मिन् जाले प्राविशत् । लोमशिका पुनः अकथयत्-सम्प्रति पुनः पुनः कूर्दनं कृत्वा दर्शय। सः तथैव समाचरत् । अनारतं कूर्दनेन सः श्रान्तः अभवत्। जाले बद्धः सः व्याघ्रः क्लान्तः सन् निःसहायो भूत्वा तत्र अपतत् प्राणभिक्षामिव च अयाचत। लोमशिका व्याघ्रम् अवदत् सत्यं त्वया भणितम् ‘सर्वः स्वार्थं समीहते।’
हिन्दी अनुवाद – लोमड़ी ने चंचल को कहा – अच्छा, तुम जाल फैलाओ। फिर उसने बाघ को बोला – किस प्रकार तुम इस जाल में बंधे ऐसा मैं प्रत्यक्ष देखना चाहती हूँ। बाघ ने उस घटना को दिखाने के लिए जाल में प्रवेश किया। लोमड़ी ने फिर कहा – अब बार बार कूदकर दिखाओ। उसने वैसा ही आचरण किया । लगातार कूदने से वह थक जाता है। जाल में बँधा हुआ वह बाघ निढाल होता हुआ असहाय होकर वहाँ गिर पड़ा तथा प्राणों की भीख माँगने लगा। लोमड़ी ने बाघ से कहा -‘तुमने सच कहा था। सभी अपना स्वार्थ चाहते हैं।
अभ्यासः
1. एकपदेन उत्तरं लिखत
(क) व्याधस्य नाम किम् आसीत् ?
उत्तर. चञ्चल:।
(ख) चञ्चल: व्याघ्रं कुत्र दृष्टवान् ?
उत्तर. वने ( जाले )।
(ग) कस्मै किमपि अकार्यं न भवति।
उत्तर. क्षुधार्थाय।
(घ) बदरी-गुल्मानां पृष्ठे का निलीना आसीत् ?
उत्तर. लोमशिका।
(ङ) सर्वः किं समीहते ?
उत्तर. स्वार्थं।
(च) निःसहायो व्याध: किमयाचत ?
उत्तर. प्राणाभिक्षाम्।
2. पूर्णवाक्येन उत्तरत
(क) चञ्चलेन वने किं कृतम् ?
उत्तर. चंचलेन वने जालं विस्तारितम्।
(ख) व्याघ्रस्य पिपासा कथं शान्ता अभवत् ?
उत्तर. व्याघ्रस्य पिपासा जलं पीत्वा शान्ता अभवत्।
(ग) जलं पीत्वा व्याघ्रः किम् अवदत् ?
उत्तर. जलं व्याघ्रः अवदत्-‘साम्प्रतम् अहम् बुभुक्षितः अस्मि, इदानीम् अहं त्वां खादिष्यामि।’
(घ) चञ्चलः ‘मातृस्वसः!’ इति कां सम्बोधितवान् ?
उत्तर. चंचलः ‘मातृस्वसः!’ इति लोमशिकाम् सम्बोधितवान्।
(ङ) जाले पुनः बद्धं व्याघ्रं दृष्ट्वा व्याध: किम् अकरोत् ?
उत्तर. जाले पुनः बद्धं व्याघ्रं दृष्ट्वा व्याधः प्रसन्नः भूत्वा गृहं प्रत्यावर्तत।
3. अधोलिखितानि वाक्यानि कः/का कं/कां प्रति कथयति
कः/का | कं/कां | |
यथा – इदानीम् अहं त्वां खादिष्यामि। | व्याघ्रः | व्याधम् प्रति |
(क) कल्याणं भवतु ते। | व्याध: | चंचलं प्रति |
(ख) जनाः मयि स्नानं कुर्वन्ति। | नदीजलम् | चंचलं प्रति |
(ग) अहं त्वत्कृते धर्मम् आचरितवान् त्वया मिथ्या भणितम्। | चंचल: | व्याघ्रं प्रति |
(घ) यत्र कुत्रापि छेदनं कुर्वन्ति। | वृक्ष: | चंचलं प्रति |
(ङ) सम्प्रति पुनः पुनः कूर्दनं कृत्वा दर्शय। | लोमशिका | व्याघ्रं प्रति |
4. रेखांकित पदमाधृत्य प्रश्ननिर्माण
(क) व्याध: व्याघ्रं जालात् बहिः निरसारयत्।
प्रश्न. व्याध: व्याघ्रं कस्मात् बहिः निरसारयत् ?
(ख) चञ्चलः वृक्षम् उपगम्य अपृच्छत्।
प्रश्न. चञ्चलः कम् उपगम्य अपृच्छत् ?
(ग) व्याघ्रः लोमशिकायै निखिलां कथां न्यवेदयत्।
प्रश्न. व्याघ्रः कस्यै निखिलां कथां न्यवेदयत् ?
(घ) मानवाः वृक्षाणां छायायां विरमन्ति।
प्रश्न. मानवाः केषाम् छायायां विरमन्ति ?
(ङ) व्याघ्रः नद्याः जलेन व्याधस्य पिपासामशमयत्।
प्रश्न. व्याघ्रः कस्याः जलेन व्याधस्य पिपासामशमयत् ?
5. मञ्जूषातः पदानि चित्वा कथां पूरयत
( वृद्ध:, कृतवान् , अकस्मात् , दृष्ट्वा , मोचयितुम् , साटृहासम् , क्षुद्रः , तर्हि , स्वकीयैः , कर्तनम् )
एकस्मिन् वने एकः वृद्ध: व्याघ्रः आसीत्। सः एकदा व्याधेन विस्तारिते जाले बद्ध: अभवत्। सः बहुप्रयासं कृतवान् किन्तु जालात् मुक्तः नाभवत्। अकस्मात् तत्र एकः मूषकः समागच्छत्। बद्धं व्याघ्रं दृष्ट्वा सः तम् अवदत्-अहो! भवान् जाले बद्ध:। अहं त्वां मोचयितुम् इच्छामि। तच्छ्रुत्वा व्याघ्रः साट्टहासम् अवदत्-अरे! त्वं क्षुद्र: जीवः मम साहाय्यं करिष्यसि। यदि त्वं मां मोचयिष्यसि तर्हि अहं त्वां न हनिष्यामि। मूषकः स्वकीयै: लघुदन्तैः तज्जालस्य कर्तनम् कृत्वा तं व्याघ्रं बहिः कृतवान्।
6. यथानिर्देशमुत्तरत
(क) सः लोमशिकायै सर्वां कथां न्यवेदयत् – अस्मिन् वाक्ये विशेषणपदं किम्।
उत्तर. अस्मिन् वाक्ये ’सर्वाम्’ इति विशेषणपदम्।
(ख) अहं त्वत्कृते धर्मम् आचरितवान् – अत्र अहम् इति सर्वनामपदं कस्मै प्रयुक्तम्।
उत्तर. अत्र अहम् इति सर्वनामपदं चञ्चलाय प्रयुक्तम्।
(ग) ‘सर्वः स्वार्थं समीहते’, अस्मिन् वाक्ये कर्तृपदं किम् ?
उत्तर. अस्मिन् वाक्ये कर्तृपदं सर्वः इति भवति।
(घ) सा सहसा चञ्चलमुपसृत्य कथयति – वाक्यात् एकम् अव्ययपदं चित्वा लिखत।
उत्तर. वाक्यात् एकम् अव्ययपदं सहसा इति भवति।
(ङ) ‘का वार्ता ? माम् अपि विज्ञापय’ – अस्मिन् वाक्ये क्रियापदं किम् ? क्रियापदस्य पदपरिचयमपि लिखतः।
उत्तर. अस्मिन् वाक्ये क्रियापदं भवति विज्ञापय इति।
विज्ञापय पदपरिचय – वि उपसर्ग, ज्ञा धातु, लोट् लकार, मध्यम पुरुष, एकवचनम्।
7. (अ) उदाहरणानुसारं रिक्तस्थानानि पूरयत
एकवचनम् | द्विवचनम् | बहुवचनम् | |
यथा – मातृ (प्रथमा) | माता | मातरौ | मातरः |
स्वसृ (प्रथमा) | स्वसा | स्वसारौ | स्वसारः |
मातृ (तृतीया) | मात्रा | मातृभ्याम् | मातृभिः |
स्वसृ (तृतीया) | स्वस्रा | स्वसृभ्याम् | स्वसृभिः |
स्वसृ (सप्तमी) | स्वसरि | स्वस्रो: | स्वसृषु |
मातृ (सप्तमी) | मातरि | मात्रोः | मातृषु |
स्वसृ (षष्ठी) | स्वसुः | स्वस्रो: | स्वसृणाम् |
मातृ (षष्ठी) | मातुः | मात्रोः | मातॄणाम् |
Note : पुस्तके स्वसणाम् इति रूपम् अशुद्धं लिखितम्। स्वसॄणाम् इति स्वसृ शब्दस्य षष्ठीबहुवचने रूपम्।
(आ) धातुं प्रत्ययं च लिखत
पदानि = | धातु: प्रत्ययः |
यथा – गन्तुम् = | गम् + तुमुन् |
द्रष्टुम् = | दृश् + तुमुन् |
करणीय = | कृ + अनीयर् |
पातुम् = | पा/पिब् + तुमुन् |
खादितुम् = | खाद् + तुमुन् |
कृत्वा = | कृ + क्त्वा |
Class – 8 Chapter – 5 KANTAKENAIV KANTAKAM
NCERT BOOK SOLUTIONS
NCERT SANSKRIT SOLUTION CLASS 6
NCERT SANSKRIT SOLUTION CLASS 7
NCERT SANSKRIT SOLUTION CLASS 8
NCERT SANSKRIT SOLUTION CLASS 9
NCERT SANSKRIT SOLUTION CLASS 10
YOUTUBE LINK: STUDY WITH SUSANSKRITA
https://www.youtube.com/channel/UCszz61PiBYCL-V4CbHTm1Ew/featured