CLASS – 8 SANSKRIT RUCHIRA PART – 3 CHAPTER – 2 BILASYA VANI NA KADAPI ME SHRUTA | HINDI TRANSLATION | QUESTION ANSWER | कक्षा – 8 संस्कृत रुचिरा भाग – 3 द्वितीय: पाठः बिलस्य वाणी न कदापि मे श्रुता | हिन्दी अनुवाद | अभ्यासः
Class 8 NCERT Sanskrit Ruchira Part 3 Chapter 2 Bilasya Vani Na Kadapi Me Shruta
ncert sanskrit class 8 chapter 2,class 8 sanskrit chapter 2,sanskrit class 8 chapter 2,class 8 sanskrit chapter 2 hindi translation,bilasya vani na kadapi me shruta,sanskrit class 8 chapter 2 hindi translation,class 8 sanskrit,class 8 sanskrit chapter 2 bilasya vani na kadapi me shruta,bilasya vani na kadapi me shruta hindi anuvad,sanskrit class 8 all chapter hindi translation,sanskrit class 8 chapter 2 bilasya vani
द्वितीयः पाठः
बिलस्य वाणी न कदापि मे श्रुता
NCERT BOOK SOLUTIONS | SOLUTIONS FOR NCERT SANSKRIT CLASS 8 CHAPTER 2 IN HINDI
Class 8 NCERT Sanskrit Ruchira Part 3 Chapter 2 Bilasya Vani Na Kadapi Me Shruta
( हिन्दी अनुवाद )
( प्रस्तुत पाठ संस्कृत के प्रसिद्ध कथाग्रन्थ ‘ पञ्चतन्त्रम् ‘ के तृतीय तंत्र ‘ काकोलुकीयम् ‘ से संकलित है। पंचतन्त्र के मूल लेखक विष्णुशर्मा है।इसमें पाँच खंड हैं जिन्हें ‘तंत्र’ कहा गया है।इनमे गद्य – पद्य रूप में कथाएँ दी गई है जिनके पात्र मुख्यतः पशु – पक्षी है। )
(क) कस्मिंश्चित् वने खरनखरः नाम सिंहः प्रतिवसति स्म। सः कदाचित् इतस्तत: परिभ्रमन् क्षुधार्तः न किञ्चिदपि आहारं प्राप्तवान्। ततः सूर्यास्तसमये एकां महतीं गुहां दृष्ट्वा सः अचिन्तयत्-“नूनम् एतस्यां गुहायां रात्रौ कोऽपि जीवः आगच्छति। अतः अत्रैव निगूढो भूत्वा तिष्ठामि” इति।
हिन्दी अनुवाद
किसी वन में खरनखर नामक सिंह रहता था। किसी समय भूख से व्याकुल होकर इधर-उधर घूमते हुए उसे कुछ भी भोजन प्राप्त न हुआ। तब सूर्य के अस्त होने के समय एक विशाल गुफा को देखकर वह सोचने लगा-“निश्चित रूप से इस गुफा में रात में कोई प्राणी आता है। अतः यहाँ पर ही छिप कर बैठता हूँ।”
(ख) एतस्मिन् अन्तरे गुहायाः स्वामी दधिपुच्छः नामकः शृगालः समागच्छत्। स च यावत् पश्यति तावत् सिंहपदपद्धतिः गुहायां प्रविष्टा दृश्यते, न च बहिरागता । शृगालः अचिन्तयत्-“अहो विनष्टोऽस्मि। नूनम् अस्मिन् बिले सिंहः अस्तीति तर्कयामि। तत् किं करवाणि ?”
हिन्दी अनुवाद
इसी बीच गुफा का मालिक दधिपुच्छ नामक गीदड़ आ गया। जैसे ही वह देखता है, वैसे ही शेर के पंजों के निशान गुफा में प्रविष्ट होते हुए ( जाते हुए ) दिखाई दिए तथा बाहर नहीं आए। गीदड़ सोचने लगा-“अरे, मैं मर गया। अवश्य ही, इस बिल में शेर है- ऐसा मुझे लगता हैं। तो क्या करूँ ?”
(ग) एवं विचिन्त्य दूरस्थः रवं कर्तुमारब्धः-‘भो बिल! भो बिल! किं न स्मरसि, यन्मया त्वया सह समयः कृतोऽस्ति यत् यदाहं बाह्यतः प्रत्यागमिष्यामि तदा त्वं माम् आकारयिष्यसि? यदि त्वं मां न आह्वयसि तर्हि अहं द्वितीयं बिलं यास्यामि इति।”
हिन्दी अनुवाद
ऐसा विचार कर दूर खड़े होकर आवाज करना शुरू किया- “अरे बिल! अरे बिल! क्या तुम्हें याद नहीं है, कि मैने तुम्हारे साथ समझौता किया है कि जब मैं बाहर से लौटूंगा तब तुम मुझे बुलाओगे ? यदि तुम मुझे नहीं बुलाते हो तो मैं दूसरे बिल में चला जाऊँगा।”
(घ) अथ एतच्छ्रुत्वा सिंहः अचिन्तयत्-“नूनमेषा गुहा स्वामिनः सदा समाह्वानं करोति। परन्तु मद्भयात् न किञ्चित् वदति।”
अथवा साध्विदम् उच्यते –
भयसन्त्रस्तमनसां हस्तपादादिकाः क्रियाः।
प्रवर्तन्ते न वाणी च वेपथुश्चाधिको भवेत्।।
अन्वयः –
भयसन्त्रस्तमनसां हस्तपादादिकाः क्रियाः वाणी च न प्रवर्तन्ते, वेपथुः च अधिकः भवेत्।
हिन्दी अनुवाद
इसके बाद यह सुनकर सिंह सोचने लगा-“अवश्य ही यह गुफा अपने स्वामी को हमेशा बुलाती हैं; परन्तु मेरे डर से ( आज ) कुछ नहीं बोल रही है।”
अथवा यह उचित ही कहा है –
भय से डरे हुए मन वाले ( लोगों ) के हाथ व पैरों से सम्बन्धित क्रियाएँ तथा वाणी ठीक से प्रवृत्त नहीं हुआ करती हैं तथा कम्पन अधिक होता है।
(ङ) तदहम् अस्य आह्वानं करोमि। एवं सः बिले प्रविश्य मे भोज्यं भविष्यति। इत्थं विचार्य सिंहः सहसा शृगालस्य आह्वानमकरोत्। सिंहस्य उच्चगर्जनप्रतिध्वनिना सा गुहा उच्चैः शृगालम् आह्वयत्। अनेन अन्येऽपि पशवः भयभीताः अभवन्। शृगालोऽपि ततः दूरं पलायमानः इममपठत्
अनागतं यः कुरुते स शोभते
स शोच्यते यो न करोत्यनागतम्।
वनेऽत्र संस्थस्य समागता जरा
बिलस्य वाणी न कदापि मे श्रुता॥
अन्वयः –
यः अनागतं कुरुते, सः शोभते। यो अनागतं न करोति, सः शोच्यते। अत्र वने संस्थस्य ( मे ) जरा समागता, ( परम् ) कदापि बिलस्य वाणी मे न श्रुता।
हिन्दी अनुवाद
तो मैं इसे बुलाता हूँ। इस प्रकार वह बिल में प्रवेश कर मेरा भोजन बन जाएगा। ऐसा विचार कर सिंह ने अचानक गीदड़ को पुकारना शुरु किया। सिंह की ऊँची दहाड़ से उस गुफा ने भी जोर से गीदड़ को बुलाया। इससे अन्य पशु भी भयभीत हो गए। गीदड़ भी उससे दूर भागता हुआ इस ( श्लोक ) को पढ़ने लगा
जो ( व्यक्ति ) आने वाले ( दुःख ) का ( पहले ही निराकरण ) करता है, वह शोभा पाता है। जो ( व्यक्ति ) आने वाले ( दुःख ) का ( पहले ही निराकरण ) नहीं करता है वह चिन्तनीय होता है। यहाँ वन में रहते हुए मैं बूढ़ा हो गया हूँ, ( परन्तु ) कभी भी मैंने बिल की आवाज नहीं सुनी।
शब्दार्था:
कस्मिंश्चित् – किसी
क्षुधार्तः – भूख से व्याकुल
अन्तरे – बीच मे
निगूढो भूत्वा – छिपकर
सिंहपदपद्धतिः – शेर के पैरों के चिन्ह
रवः – शब्द / आवाज
यावत्- तावत् – जबतक, तबतक
समयः – शर्त
बाह्यतः – बाहर से
यदि – तर्हि – अगर , तो
तच्छ्रुत्वा (तत् + श्रुत्वा) – वह सुनकर
भयसन्त्रस्तमनसाम् – डरे हुए मन वालो का
हस्तपादादिकाः (हस्तपाद + आदिकाः) – हाथ पैर आदि से संबंधित
वेपथुः – कम्पन
भोज्यम् – भोजन योग्य ( पदार्थ )
सहसा – एकाएक
अनागतम् – आने वाले दुःख को
शोच्यते – चिन्तनीय होता है
संस्थस्य – रहते हुए का/के / की
जरा – बुढापा
कुरुते / करोति – ( निराकरण ) करता है
बिलस्य – बिल का ( गुफा का )
अभ्यास:
1. उच्चारणं कुरुत – ( उच्चारण कीजिए )
कस्मिश्चित् | विचिन्त्य | साध्विदम् |
क्षुधार्तः | एतच्छ्रुत्वा | भयसन्त्रस्तमनसाम् |
सिंहपदपद्धतिः | समाह्वानम् | प्रतिध्वनिः |
2. एकपदेन उत्तरं लिखत
(क) सिंहस्य नाम किम् ?
उत्तर. खरनखरः ।
(ख) गुहायाः स्वामी कः आसीत् ?
उत्तर. दधिपुच्छः ।
(ग) सिंहः कस्मिन् समये गुहायाः समीपे आगतः ?
उत्तर. सूर्यास्तसमये ।
(घ) हस्तपादादिकाः क्रियाः केषां न प्रवर्तन्ते ?
उत्तर. भयसंत्रस्तमनसाम् ।
(ङ) गुहा केन प्रतिध्वनिता ?
उत्तर. उच्चगर्जनेन।
3. पूर्णवाक्येन उत्तरत
(क) खरनखरः कुत्र प्रतिवसति स्म ?
उत्तर. खरनखरः कस्मिश्चित् वने प्रतिवसति स्म।
(ख) महतीं गुहां दृष्ट्वा सिंहः किम् अचिन्तयत् ?
उत्तर. महतीं गुहां दृष्ट्वा सिंह: अचिन्तयत्-‘नूनम् एतस्यां गुहायां रात्रौ कोऽपि जीवः आगच्छति।
अत: अत्रैव निगूढो भूत्वा तिष्ठामि” इति।
(ग) शृगालः किम् अचिन्तयत् ?
उत्तर. शृगालः अचिन्तयत्-“अहो विनष्टोऽस्मि। नूनम् अस्मिन् बिले सिंहः अस्ति इति तर्कयामि। तत् किं करवाणि ?”
(घ) शृगालः कुत्र पलायित: ?
उत्तर. शृगालः दूरं पलायितः।
(ङ) गुहासमीपमागत्य शृगालः किं पश्यति ?
उत्तर. गुहासमीपमागत्य शृगालः सिंहपदपद्धतिं पश्यति।
(च) कः शोभते ?
उत्तर. यः अनागतं कुरुते सः शोभते।
4. रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत
(क) क्षुधार्तः सिंहः कुत्रापि आहारं न प्राप्तवान् ?
प्रश्न. कीदृशः सिंहः कुत्रापि आहारं न प्राप्तवान् ?
(ख) दधिपुच्छः नाम शृगालः गुहायाः स्वामी आसीत् ?
प्रश्न. किम् नाम शृगालः गुहायाः स्वामी आसीत् ?
(ग) एषा गुहा स्वामिनः सदा आह्वानं करोति ?
प्रश्न. एषा गुहा कस्य सदा आह्वानं करोति ?
(घ) भयसन्त्रस्तमनसां हस्तपादादिकाः क्रियाः न प्रवर्तन्ते ?
प्रश्न. भयसन्त्रस्तमनसां कीदृश्यः न प्रवर्तन्ते ?
(ङ) आह्वानेन शृगाल: बिले प्रविश्य सिंहस्य भोज्यं भविष्यति ?
प्रश्न. आह्वानेन शृगालः कस्मिन् प्रविश्य सिंहस्य भोज्यं भविष्यति ?
5. घटनाक्रमानुसारं वाक्यानि लिखत
(क) गुहायाः स्वामी दधिपुच्छः नाम शृगालः समागच्छत्।
(ख) सिंह: एकां महतीं गुहाम् अपश्यत्।
(ग) परिभ्रमन् सिंहः क्षुधार्तो जातः।
(घ) दूरस्थः शृगालः रवं कर्त्तुमारब्धः।
(ङ) सिंहः शृगालस्य आह्वानमकरोत्।
(च) दूरं पलायमानः शृगालः श्लोकमपठत्।
(छ) गुहायां कोऽपि अस्ति इति शृगालस्य विचारः।
उत्तर.
(क) परिभ्रमन् सिंहः क्षुधार्तो जातः।
(ख) सिंह: एकां महतीं गुहाम् अपश्यत्।
(ग) गुहायाः स्वामी दधिपुच्छः नाम शृगालः समागच्छत्।
(घ) गुहायां कोऽपि अस्ति इति शृगालस्य विचारः।
(ङ) दूरस्थः शृगालः रवं कर्तुमारब्धः।
(च) सिंहः शृगालस्य आह्वानमकरोत्।
(छ) दूरं पलायमानः शृगालः श्लोकमपठत्।
6. यथानिर्देशमुत्तरत
(क) ‘एकां महतीं गुहां दृष्ट्वा सः अचिन्तयत्’ अस्मिन् वाक्ये कति विशेषणपदानि, संख्यया सह पदानि अपि लिखत ?
उत्तर. अस्मिन् वाक्ये द्वेविशेषणपदे ‘एकां’ , ‘महतीम्’ च स्तः।
(ख) ‘तदहम् अस्य आह्वानं करोमि’- अत्र ‘अहम्’ इति पदं कस्मै प्रयुक्तम् ?
उत्तर. ‘तदहम् अस्य आहवानं करोमि’–अत्र ‘अहम्’ इति पदं खरनखराय (सिंहाय) प्रयुक्तम्।
(ग) “यदि त्वं मां न आह्वयसि’, अस्मिन् वाक्ये कर्तृपदं किम् ?
उत्तर. “यदि त्वं मां न आह्वयसि’, अस्मिन् वाक्ये कर्तृपदं ‘त्वम्’ अस्ति।
(घ) “सिंहपदपद्धतिः गुहायां प्रविष्टा दृश्यते’ अस्मिन् वाक्ये क्रियापदं किम् ?
उत्तर. ‘सिंहपदपद्धतिः गुहायां प्रविष्टा दृश्यते’ अस्मिन् वाक्ये क्रियापदं ‘दृश्यते’ अस्ति।
(ङ) ‘वनेऽत्र संस्थस्य समागता जरा’ अस्मिन् वाक्ये अव्ययपदं किम्?
उत्तर. ‘वनेऽत्र संस्थस्य समागता जरा’ अस्मिन् वाक्ये ‘अत्र’ अव्ययपदं अस्ति।
7. मञ्जूषातः अव्ययपदानि चित्वा रिक्तस्थानानि पूरयत
( कश्चन, दूरे, नीचैः, यदा, तदा, यदि, तर्हि, परम्, च, सहसा )
एकस्मिन् वने कश्चन व्याधः जालं विस्तीर्य दूरे स्थितः। क्रमशः आकाशात् सपरिवारः कपोतराजः नीचैः आगच्छत्। यदा कपोताः तण्डुलान् अपश्यन् तदा तेषां लोभो जातः। परं राजा सहमतः नासीत्। तस्य युक्तिः आसीत् यदि वने कोऽपि मनुष्यः नास्ति। तर्हि कुतः तण्डुलानाम् सम्भवः? परम् राज्ञः उपदेशम् अस्वीकृत्य कपोताः तण्डुलान् खादितुं प्रवृत्ताः जाले च निपतिताः। अतः उक्तम् ‘सहसा विदधीत न क्रियाम्’।
Class 8 NCERT Sanskrit Ruchira Part 3 Chapter 2 Bilasya Vani Na Kadapi Me Shruta
NCERT BOOK SOLUTIONS
NCERT SANSKRIT SOLUTION CLASS 6
NCERT SANSKRIT SOLUTION CLASS 7
NCERT SANSKRIT SOLUTION CLASS 8
NCERT SANSKRIT SOLUTION CLASS 9
NCERT SANSKRIT SOLUTION CLASS 10
YOUTUBE LINK: STUDY WITH SUSANSKRITA
https://www.youtube.com/channel/UCszz61PiBYCL-V4CbHTm1Ew/featured