CLASS – 7 SANSKRIT RUCHIRA PART – 2 CHAPTER – 11 SAMVAYO HI DURJAY | HINDI TRANSLATION | QUESTION ANSWER | कक्षा – 7 संस्कृत रुचिरा भाग – 2 एकादश: पाठ: समवायो हि दुर्जयः | हिन्दी अनुवाद | अभ्यास:
Class 7 NCERT Sanskrit Ruchira Part 2 Chapter 11 Samvayo Hi Durjay
class 7 sanskrit chapter 11,class 7 sanskrit chapter 11 samvayo hi durjayah,sanskrit class 7 chapter 11,class 7 sanskrit chapter 11 hindi translation,ncert class 7 sanskrit chapter 11,class 7 sanskrit chapter 11 question answer,class 7 sanskrit chapter 11 hindi anuvad,class 7 sanskrit chapter 11 ruchira,class 7 sanskrit chapter 11 exercise,ncert class 7 chapter 11 sanskrit,ruchira class 7 chapter 11,cbse sanskrit class 7 chapter 11,Class 7 NCERT Sanskrit Ruchira Part 2 Chapter 11 Samvayo Hi Durjay
कक्षा 7 संस्कृत अध्याय 11, कक्षा 7 संस्कृत अध्याय 11 संवाद ही दुर्जयः, संस्कृत कक्षा 7 अध्याय 11, कक्षा 7 संस्कृत अध्याय 11 हिंदी अनुवाद, एनसीईआरटी कक्षा 7 संस्कृत अध्याय 11, कक्षा 7 संस्कृत अध्याय 11 प्रश्न उत्तर, कक्षा 7 संस्कृत अध्याय 11 हिंदी अनुवाद, कक्षा 7 संस्कृत अध्याय 11 रुचिरा, कक्षा 7 संस्कृत अध्याय 11 अभ्यास, एनसीईआरटी कक्षा 7 अध्याय 11 संस्कृत, रुचिरा कक्षा 7 अध्याय 11, सीबीएसई संस्कृत कक्षा 7 अध्याय 11
एकादशः पाठः
समवायो हि दुर्जयः
NCERT BOOK SOLUTIONS | SOLUTIONS FOR NCERT SANSKRIT CLASS 7 CHAPTER 11 IN HINDI
Class 7 NCERT Sanskrit Ruchira Part 2 Chapter 11 Samvayo Hi Durjay
( हिन्दी अनुवाद )
(क) पुरा एकस्मिन् वृक्षे एका चटका प्रतिवसति स्म। कालेन तस्याः सन्ततिः जाता। एकदा कश्चित् प्रमत्तः गजः तस्य वृक्षस्य अधः आगत्य तस्य शाखां शुण्डेन अत्रोटयत्। चटकायाः नीडं भुवि अपतत्। तेन अण्डानि विशीर्णानि । अथ सा चटका व्यलपत्। तस्याः विलापं श्रुत्वा काष्ठकूटः नाम खगः दुःखेन ताम् अपृच्छत्-“भद्रे, किमर्थं विलपसि?” इति।
हिन्दी अनुवाद
प्राचीन समय में एक पेड़ पर एक चिड़िया रहती थी। समय से उसकी सन्तान हुई। एक बार किसी मदमस्त हाथी ने उस पेड़ के नीचे आकर उसकी शाखा को तोड़ डाला। चिड़िया का घोंसला भूमि पर गिर गया। उससे अण्डे नष्ट हो गए। अब वह चिड़िया रोने लगी। उसका रोना सुनकर काष्ठकूट नामक पक्षी ने दुःख से उससे पूछा-“बहन ( चिड़िया ) किसलिए रो रही हो?”
(ख) चटकावदत्-“दुष्टेनैकेन गजेन मम सन्ततिः नाशिता। तस्य गजस्य वधेनैव मम दुःखम् अपसरेत्।” ततः काष्ठकूटः तां वीणारवा-नाम्न्याः मक्षिकायाः समीपम् अनयत्। तयोः वार्तां श्रुत्वा मक्षिकावदत्-“ममापि मित्रं मण्डूकः मेघनादः अस्ति। शीघ्रं तमुपेत्य यथोचितं करिष्यामः।” तदानीं तौ मक्षिकया सह गत्वा मेघनादस्य पुरः सर्वं वृत्तान्तं न्यवेदयताम्।
हिन्दी अनुवाद
चिड़िया बोली – “ एक दुष्ट हाथी के द्वारा मेरे बच्चे नष्ट कर दिए गए हैं। उस हाथकीके वध से ही मेरा दुःख दूर होगा।” तब काष्ठकूट उसको वीणारवा नामक मक्खी के पास ले गया। उन दोनों की बात को सनकर मक्खी बोली-“मेरा भी मेघनाद नामक मेढक मित्र है। जल्दी ही उसके समीप जाकर जैसा ठीक हो, करेंगे।” तब उन दोनों ने मक्खी के साथ जाकर मेघनाद के सामने सारी घटना बतायी।
(ग) मेघनादः अवदत्-“यथाहं कथयामि तथा कुरुतम्। मक्षिके ! प्रथमं त्वं मध्याह्ने तस्य
गजस्य कर्णे शब्दं कुरु, येन सः नयने निमील्य स्थास्यति। तदा काष्ठकूटः चञ्च्वा तस्य
नयने स्फोटयिष्यति एवं सः गजः अन्धः भविष्यति।”
हिन्दी अनुवाद
मेघनाद बोला – “जैसा मैं कहता हूँ, ( तुम दोनों ) वैसा करो। मक्खी! पहले तुम दोपहर में उस हाथी के कान में आवाज़ करना, जिससे वह आँखें बन्द करके बैठेगा। तब काष्ठकूट चोंच से उसकी दोनों आँखें फोड़ देगा। इस प्रकार वह हाथी अन्धा हो जाएगा।”
(घ) तृषार्तः सः जलाशयं गमिष्यति। मार्गे महान् गर्तः अस्ति। तस्य अन्तिके अहं स्थास्यामि शब्दं च करिष्यामि। मम शब्देन तं गर्तं जलाशयं मत्वा स तस्मिन्नेव गर्ते पतिष्यति मरिष्यति च।” अथ तथा कृते सः गजः मध्याह्ने मण्डूकस्य शब्दम् अनुसृत्य महत: गर्तस्य अन्तः पतितः मृतः च। तथा चोक्तम्-
‘ बहूनामप्यसाराणां समवायो हि दुर्जयः ‘।
हिन्दी अनुवाद
प्यास से पीड़ित वह तालाब पर जाएगा। रास्ते में बड़ा गड्ढा है। उसके पास मैं बैठूँगा और आवाज़ करूँगा। मेरी आवाज़ से उस गड्ढे को तालाब मान कर वह उसी गड्ढे में गिर जाएगा और मर जाएगा। अब वैसा करने पर वह हाथी दोपहर में मेढक की आवाज़ का पीछा करके बड़े गड्ढे के अन्दर गिर गया और मर गया। और कहा भी गया है –
‘निश्चय से अनेक निर्बलों का समूह कठिनाई को जीतने योग्य होता हैं।’
शब्दार्थाः
Class 7 NCERT Sanskrit Ruchira Part 2 Chapter 11 Samvayo Hi Durjay
पुरा – पहले, पुराने समय मे
शुण्डेन – सूँड से
नीडम् – घोंसले को
विशीर्णानि – नष्ट हो गए
तमुपेत्य ( तम् + उपेत्य ) – उसके पास जाकर
मध्याह्ने – दोपहर में
निमील्य – बंद करके
स्थास्यति – रुक जाएगा
स्फोटयिष्यति – फोड़ देगा
तृषार्तः ( तृषा + आर्तः ) – प्यास से पीड़ित
गर्तः – गड्ढा
तथा कृते – वैसा करने पर
अनुसृत्य – अनुसरण करके
पतितः – गिर गया
मृतः – मर गया
चोक्तम् ( च+ उक्तम् ) – और कहा गया है
दुर्जयः – कठिनता से जीतने योग्य
बहूनामप्यसाराणाम् ( बहूनाम् + अपि + असाराणाम् ) – अनेक निर्बलों का
समवायः – समूह, संगठन
अभ्यासः
Class 7 NCERT Sanskrit Ruchira Part 2 Chapter 11 Samvayo Hi Durjay
1. प्रश्नानाम् उत्तराणि एकपदेन लिखत
(क) वृक्षे का प्रतिवसति स्म ?
उत्तर. चटका।
(ख) वृक्षस्य अधः कः आगतः ?
उत्तर. गजः।
(ग) गजः केन शाखाम् अत्रोटयत् ?
उत्तर. शुण्डेन।
(घ) काष्ठकूट: चटकां कस्याः समीपम् अनयत् ?
उत्तर. मक्षिकायाः।
(ङ) मक्षिकायाः मित्रं कः आसीत् ?
उत्तर. मण्डूक: ।
2. रेखाड्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत
(क) कालेन चटकायाः सन्ततिः जाता।
प्र. कालेन कस्याः सन्ततिः जाता ?
(ख) चटकायाः नीडं भुवि अपतत्।
प्र. चटकायाः किं भुवि अपतत् ?
(ग) गजस्य वधेनैव मम दुःखम् अपसरेत्।
प्र. कस्य वधेनैव मम दुःखम् अपसरेत् ?
(घ) काष्ठकूटः चञ्च्वा गजस्य नयने स्फोटयिष्यति।
प्र. काष्ठकूट: केन गजस्य नयने स्फोटयिष्यति ?
3. मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत
( करिष्यामि, गमिष्यति, अनयत्, पतिष्यति, स्फोटयिष्यति, त्रोटयति। )
(क) काष्ठकूट: चञ्च्वा गजस्य नयने स्फोटयिष्यति ।
(ख) मार्गे स्थितः अहमपि शब्दं करिष्यामि ।
(ग) तृषार्तः गजः जलाशयं गमिष्यति ।
(घ) गजः गर्ते पतिष्यति ।
(ङ) काष्ठकूटः तां मक्षिकायाः समीपं अनयत् ।
(च) गजः शुण्डेन वृक्षशाखाः त्रोटयति ।
4. प्रश्नानाम् उत्तराणि एकवाक्येन लिखत
(क) चटकायाः विलापं श्रुत्वा काष्ठकूटः तां किम् अपृच्छत् ?
उत्तर. चटकायाः विलापं श्रुत्वा काष्ठकूटः तां अपृच्छत् -“भद्रे , किमर्थं विलपसि ?”
(ख) चटकायाः काष्ठकूटस्य च वार्तां श्रुत्वा मक्षिका किम् अवदत् ?
उत्तर. चटकायाः काष्ठकूटस्य च वार्तां श्रुत्वा मक्षिका अवदत्-“ममापि मित्रं मण्डूकः मेघनादः अस्ति । शीघ्रं तमुपेत्य यथोचितं करिष्यामः।”
(ग) मेघनादः मक्षिकां किम् अवदत् ?
उत्तर. मेघनादः मक्षिकां अवदत्-“यथाहं कथयामि तथा कुरुतम्।”
(घ) चटका काष्ठकूटं किम् अवदत् ?
उत्तर. चटका काष्ठकूटं अवदत्-“एकेन दुष्टेन गजेन मम सन्तति: नाशिताः।”
5. उदाहरणमनुसृत्य रिक्तस्थानानि पूरयत
(क) पुरुषः | एकवचनम् | द्विवचनम् | बहुवचनम् |
यथा – प्रथमपुरुषः | पठिष्यति | पठिष्यतः | पठिष्यन्ति |
प्रथमपुरुषः | पतिष्यति | पतिष्यतः | पतिष्यन्ति |
प्रथमपुरुषः | मरिष्यति | मरिष्यतः | मरिष्यन्ति |
(ख) पुरुषः | एकवचनम् | द्विवचनम् | बहुवचनम् |
यथा– मध्यमपुरुषः | गमिष्यसि | गमिष्यथः | गमिष्यथ |
मध्यमपुरुषः | धाविष्यसि | धाविष्यथः | धाविष्यथ |
मध्यमपुरुषः | क्रीडिष्यसि | क्रीडिष्यथः | क्रीडिष्यथ |
(ग) पुरुषः | एकवचनम् | द्विवचनम् | बहुवचनम् |
यथा – उत्तमपुरुषः | लेखिष्यामि | लेखिष्यावः | लेखिष्यामः |
उत्तमपुरुषः | हसिष्यामि | हसिष्यावः | हसिष्यामः |
उत्तमपुरुषः | द्रक्ष्यामि | द्रक्ष्यावः | द्रक्ष्यामः |
6. उदाहरणानुसारं ‘स्म’ शब्दं योजयित्वा भूतकालिकक्रियां रचयत
यथा अवसत् – वसति स्म।
अपठत् – पठति स्म।
अत्रोटयत् – त्रोटयति स्म।
अपतत् – पतति स्म।
अपृच्छत् – पृच्छति स्म।
अवदत् – वदति स्म।
अनयत् – नयति स्म।
7. कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत
(क) एका बालिका मधुरं गायति। ( एकम्, एका, एकः )
(ख) चत्वारः कृषकाः कृषिकर्माणि कुर्वन्ति । ( चत्वारः, चतस्रः, चत्वारि )
(ग) तानि पत्राणि सुन्दराणि सन्ति। ( ते, ताः, तानि )
(घ) धेनवः दुग्धं ददति। ( ददाति, ददति, ददन्ति )
(ङ) वयं संस्कृतम् अपठाम। ( अपठत्, अपठन्, अपठाम )
Class 7 NCERT Sanskrit Ruchira Part 2 Chapter 11 Samvayo Hi Durjay
NCERT BOOK SOLUTIONS
NCERT SANSKRIT SOLUTION CLASS 6
NCERT SANSKRIT SOLUTION CLASS 7
NCERT SANSKRIT SOLUTION CLASS 8
NCERT SANSKRIT SOLUTION CLASS 9
NCERT SANSKRIT SOLUTION CLASS 10
YOUTUBE LINK: STUDY WITH SUSANSKRITA
https://www.youtube.com/channel/UCszz61PiBYCL-V4CbHTm1Ew/featured